मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ११

संहिता

ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि ।
रे॒वन्तं॒ हि त्वा॑ शृ॒णोमि॑ ॥

पदपाठः

तान् । आ॒ऽशिर॑म् । पु॒रो॒ळाश॑म् । इन्द्र॑ । इ॒मम् । सोम॑म् । श्री॒णी॒हि॒ ।
रे॒वन्त॑म् । हि । त्वा॒ । शृ॒णोमि॑ ॥

सायणभाष्यम्

हे इन्द्र तान्पूर्वोक्तान सोमान् आशिरं श्रयणद्रव्यञ्च क्षीरादिकं श्रीणीहि मिश्रय यागार्थं त्दनन्तरं पुरोळाशं धानाकरंभादिलक्षणं सवनीयपुरोडाशं इमं अस्मदीयं सोमं च श्रीणीहि मिश्रय प्रथमं भक्षितं पुरोळाशं पश्चात्पीतेन सोमेन संयोजयेत्यर्थः तवप्रार्थने कोहेतुरिति चेत् हि यस्मात् रेवन्तं रयिमन्तं रयेर्मतौबहुलमिति सम्प्रसारणम् बहुलधनं वां शृणोमि त्वं बहुधनइति सर्वत्रश्रूयते अतः कारणात् त्वामेव प्रार्थयामहे ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९