मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १२

संहिता

हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम् ।
ऊध॒र्न न॒ग्ना ज॑रन्ते ॥

पदपाठः

हृ॒त्ऽसु । पी॒तासः॑ । यु॒ध्य॒न्ते॒ । दुः॒ऽमदा॑सः । न । सुरा॑याम् ।
ऊधः॑ । न । न॒ग्नाः । ज॒र॒न्ते॒ ॥

सायणभाष्यम्

हे इन्द्र पीतासस्त्वयापीताः सोमाः हृत्सु हृदयेषु त्वदीयेषु युध्यन्ते परस्परं सम्प्रहारं कुर्वते तत्रदृष्टान्तः-सुरायां पीतायां जायमानाः दुर्मदासोन दुष्टमदाः यथा पातारं मादयन्ति तद्वत् त्वां मादयितुं परस्परं युध्यन्तइत्यर्थः अपिच नग्नाः छन्दांसि तानि न जहतीति नग्नाः स्तोतारः तेच ऊधर्न पयसा पूर्णं गवादेरूधइव सोमपूर्णं त्वां जरन्ते स्तुवन्ति जरतिः स्तुतिकर्मा ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९