मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १३

संहिता

रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ ।
प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥

पदपाठः

रे॒वान् । इत् । रे॒वतः॑ । स्तो॒ता । स्यात् । त्वाऽव॑तः । म॒घोनः॑ ।
प्र । इत् । ऊं॒ इति॑ । ह॒रि॒ऽवः॒ । श्रु॒तस्य॑ ॥

सायणभाष्यम्

हे हरिवः हरिवन् मतुवसोरुरिति नकारस्य रुत्वम् । हरी अश्वौ तद्वन्निन्द्र रेवतोरयिमतः बहुधनोपेतस्य अतएव स्तोता रेवान् स्यात् रयिमान् भवेत् इच्छब्दोवधारणे धनवान् भवेदेव नतु दारिद्भ्यंप्राप्नोति । उक्तमेवार्थं कैमुतिकन्यायेन द्रढयति त्वावतः त्वत्सदृशस्य युष्मदस्मद्भ्यांछन्दसिसादृश्यमुपसंख्यानमितिवतुप् । मघोनोधनवतोधनाढ्यस्य श्रुतस्य सर्वत्रप्रख्यातस्य अन्यस्यापि स्तोता प्रेदु स्यादित्यनुषज्यते प्रस्यात् प्र्भवेदेव नतु निहीयते किमुवक्तव्यं तवस्तोता धनवान् भवेदिति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९