मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १४

संहिता

उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।
न गा॑य॒त्रं गी॒यमा॑नम् ॥

पदपाठः

उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगोः॑ । अ॒रिः । आ । चि॒के॒त॒ ।
न । गा॒य॒त्रम् । गी॒यमा॑नम् ॥

सायणभाष्यम्

गायतेर्गोः अगोः अस्तोतुः अरिः शत्रुरिन्द्रः शस्यमानं होत्रापठ्यमानं उक्थं चन शस्त्रमपि आचिकेत अभिजानाति । कितज्ञाने छान्दसोलिट् नेतिसम्प्रत्यर्थे न सम्प्रति प्रस्तोत्रादिभिर्गीयमानं गायत्रं गातव्यं साम यद्वा गायत्राख्यं अपिचिकेतेत्येव अतःकारणात् वयमपि तमिन्द्रं स्तुमइत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९