मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १५

संहिता

मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।
शिक्षा॑ शचीव॒ः शची॑भिः ॥

पदपाठः

मा । नः॒ । इ॒न्द्र॒ । पी॒य॒त्नवे॑ । मा । शर्ध॑ते । परा॑ । दाः॒ ।
शिक्ष॑ । श॒ची॒ऽवः॒ । शची॑भिः ॥

सायणभाष्यम्

हे इन्द्र त्वं पीयत्नवे पीयतिर्वधकर्मा वधशीलाय हिंसाकारिणे शत्रवे नोस्मान् मापरादाः मापरित्याक्षीः माच शर्धते अभिभवित्रे अस्मान्मापरादाः । शृधुप्रसहने इतिधातुः अपितु हे शचीवः शक्तिमन्निन्द्र शचीभिरात्मयैः कर्मभिः शिक्षास्माननुशाधि यद्वा शिक्षतिर्दानकर्मा अभीष्टं धनमस्मभ्यं देहि यद्वा शत्रून् जेतुं शिक्ष शक्तान् कर्तुमिच्छ शकेः सन्नन्तस्य सनिमीमेति इसादेशेभ्यासलोपे च कृते लोटिरूपमेतत् ॥ १५ ॥ प्रथमेरात्रिपर्याये ब्रह्मशस्त्रे वयमुत्वेति स्तोत्रियस्तृचः सूत्रितञ्च-वयमुत्वातदिदर्थावयमिन्द्रत्वायवोभीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९