मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १६

संहिता

व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्त॒ः सखा॑यः ।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥

पदपाठः

व॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्थाः । इन्द्र॑ । त्वा॒ऽयन्तः॑ । सखा॑यः ।
कण्वाः॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ ॥

सायणभाष्यम्

हे इन्द्र त्वायन्तः त्वामात्मनइच्छन्तः सखायः समानख्यानाः वयं तदिदर्थाःयत्तत्त्वद्विषयं स्तोत्रं तदित् तदेव अर्थः प्रयोजनं येषां तादृशाः सन्तः त्वा त्वां जरामहे स्तुमहे । उइति पूरणः कण्वाः कण्वगोत्रोत्पन्नाः अस्मदीयाः पुत्रादयश्च उक्थेभिरुक्थैः शस्त्रैर्जरन्ते त्वां स्तुवन्ति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०