मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १७

संहिता

न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।
तवेदु॒ स्तोमं॑ चिकेत ॥

पदपाठः

न । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि॑न् । अ॒पसः॑ । नवि॑ष्टौ ।
तव॑ । इत् । ऊं॒ इति॑ । स्तोम॑म् । चि॒के॒त॒ ॥

सायणभाष्यम्

हे वज्रिन् वज्रवन्निन्द्र अपसः अपस्विनः कर्मवतस्तव सम्बन्धिनि नविष्टौ अभिनवे यागे वर्तमानोहं अन्यत् त्वद्विषयादन्यत् स्तोत्रं नघेम् नैव आपपन अभिष्टौमि पनतेः स्तुतिकर्मणउत्तमे णलि लिटि रूपम् । अपितु तवेदु तवैव स्तोमं स्तोत्रं चिकेत अभिजानामि त्वामेव सर्वदा स्तौमीत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०