मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १८

संहिता

इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति ।
यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥

पदपाठः

इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ।
यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥

सायणभाष्यम्

सुवन्तं सोमाभिषवं कुर्वन्तं यजमानं देवाः इन्द्रादयः सर्वे इच्छन्ति रक्षितुं स्वप्नायेन स्पृहयन्ति स्वप्नावस्थांगतस्य सुन्वतोनेप्सन्ति सर्वदा प्रबुद्धमेव कुर्वन्तीत्यर्थः स्पृहेरीप्सितइतिकर्मणि चतुर्थी स्पृहईप्सायां चुरादिरदन्तः यतएवं अतःकारणात् अतन्द्राः अनलसादेवाः प्रमादं प्रकर्षेण मदकरं तदीयं सोमं यन्ति प्राप्नुवन्ति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०