ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।
म॒हाँ इ॑व॒ युव॑जानिः ॥
ओ इति॑ । सु । प्र । या॒हि॒ । वाजे॑भिः । मा । हृ॒णी॒थाः॒ । अ॒भि । अ॒स्मान् ।
म॒हान्ऽइ॑व । युव॑ऽजानिः ॥
हे इन्द्र वाजेभिर्वाजैः अस्मभ्यं दातव्यैरन्नैः सार्धं अस्मानाभिमुख्येन सु सुष्ठु प्रकर्षेण ओ आउ याहि शीघ्रमायात्द्येव आगच्छैव माहृणीथः माक्रुध्यस्व हृणीयतिः क्रुध्यतिकर्मा यद्वा मा लज्जां प्राप्नुहि हृणीङ् लज्जायामिति कंड्वादौ पठ्यते । तत्रदृष्टान्तः – महाँइव युवजानिः युवतिर्जाया सस्यसतथोक्तः जायायानिङिति समासान्तोनिङादेशः । ईदृशोमहान् गुणैरधिकोपि यथा स्वभार्यां प्रति निर्लज्जःसन् शीघ्रं गच्छति तद्वत् ॥ १९ ॥