मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २१

संहिता

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् ।
त्रि॒षु जा॒तस्य॒ मनां॑सि ॥

पदपाठः

वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य॑ । भू॒रि॒ऽदाव॑रीम् । सु॒ऽम॒तिम् ।
त्रि॒षु । जा॒तस्य॑ । मनां॑सि ॥

सायणभाष्यम्

अस्येन्द्रस्य वीरस्य विक्रान्त्स्य भूरिदावरीं बहुधनस्य दात्रीं सुमतिं कल्याणीं मतिं अनुग्रहबुद्धिं विद्माहि जानीमः खलु । तथा त्रिषु भूम्यादिषु त्रिषु लोकेषु जातस्य तत्कार्यार्थं प्रादुर्भूतस्य मनांसि हृदयानि च जानीमः अतस्तस्येन्द्रस्य यथा प्रीतिर्जनिष्यते तथा स्तोत्रं कर्मइत्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१