मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २२

संहिता

आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात् ।
य॒शस्त॑रं श॒तमू॑तेः ॥

पदपाठः

आ । तु । सि॒ञ्च॒ । कण्व॑ऽमन्तम् । न । घ॒ । वि॒द्म॒ । श॒व॒सा॒नात् ।
य॒शःऽत॑रम् । श॒तम्ऽऊ॑तेः ॥

सायणभाष्यम्

हे अध्वर्यो कण्वमन्तं कणतिः शब्दकर्मा कण्वाः स्तोतारः यद्वा कण्वगोत्राऋषयः तैर्युक्तमिन्द्रमुद्दिश्य नु क्षिप्रं आसिञ्च सोमं जुहुधि । शवसानात् शवोबलं तदिवाचरतः अतिबलात् शतमूतेः शतं बहुनामैतत् बत्द्मऊतयोरक्षायस्मिन् सशतमूतिः तादृशादस्मादिन्द्रात् यशस्तरं यशस्वितरं पुरुषं नघ नैव विद्म जानीमः अतस्तमेवोद्दिश्य सोमं जुहुधीत्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१