मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २३

संहिता

ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।
भरा॒ पिब॒न्नर्या॑य ॥

पदपाठः

ज्येष्ठे॑न । सो॒तः॒ । इन्द्रा॑य । सोम॑म् । वी॒राय॑ । श॒क्राय॑ ।
भर॑ । पिब॑त् । नर्या॑य ॥

सायणभाष्यम्

हे सोतरभिषोतरध्वर्यो वीराय विक्रान्ताय शक्राय शक्तियुक्ताय नर्याय नृभ्योहितायेन्द्राय ज्येष्ठेन मुख्येन ऎन्द्रवयवग्रहेण सहि धाराग्र- हाणांमध्ये ज्येष्ठः तेन सोमं भर हर आहर वीर्यं प्रापय । सचेन्द्रः पिबत् तं सोमं पिबतु ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१