मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २५

संहिता

पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।
सोमं॑ वी॒राय॒ शूरा॑य ॥

पदपाठः

पन्य॑म्ऽपन्यम् । इत् । सो॒ता॒रः॒ । आ । धा॒व॒त॒ । मद्या॑य ।
सोम॑म् । वी॒राय॑ । शूरा॑य ॥

सायणभाष्यम्

हे सोतारः अभिषोतारोध्वर्यवः मद्याय मादयितव्याय वीराय विक्रान्ताय शूरायशौर्यवतइन्द्राय पन्यंपन्यमित् सर्वत्र स्तुत्यमेव सोमं आधावत अभिगमयत प्रयच्छतेत्यर्थः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१