मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २६

संहिता

पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।
नि य॑मते श॒तमू॑तिः ॥

पदपाठः

पाता॑ । वृ॒त्र॒ऽहा । सु॒तम् । आ । घ॒ । ग॒म॒त् । न । आ॒रे । अ॒स्मत् ।
नि । य॒म॒ते॒ । श॒तम्ऽऊ॑तिः ॥

सायणभाष्यम्

सुतमभिषुतं सोमं पाता पानशीलः ताच्छीलिकस्तृन् नलोकाव्ययेति कर्मणिषष्ठयाःप्रतिषेधः वृत्रः वृत्रस्यासुरस्यहन्ता इन्द्रः आगमत् घेत्यवधारणे आगच्छत्वेव अस्मत् अस्मत्तः आरेदूरदेशे माभवतु आगत्यच शतमूतिः बहुविधरक्षणः इन्द्रः नियमते अस्मदीयान् शत्रून् नियच्छतु तिरस्करोतु यद्वा धनान्यस्मभ्यं नियच्छतु ददातु ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२