एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒ः सखा॑यम् ।
गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥
आ । इ॒ह । हरी॒ इति॑ । ब्र॒ह्म॒ऽयुजा॑ । श॒ग्मा । व॒क्ष॒तः॒ । सखा॑यम् ।
गीः॒ऽभिः । श्रु॒तम् । गिर्व॑णसम् ॥
ब्रह्मयुजा अन्नवन्तौ शग्मा सुखप्रदौ हरी एतादृशौ अश्वौ युवां इहअस्मद्यज्ञे इन्द्रं आवक्षतः आवहतम् । कीदृशं इन्द्रं अस्मत्सखायं गीर्भिः अस्मत्कृतैः स्तोत्रैः श्रुतं प्रख्यातं गिर्वणसं गिरां संभक्तारम् ॥ २७ ॥