मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २९

संहिता

स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑ ।
इन्द्र॑ का॒रिणं॑ वृ॒धन्त॑ः ॥

पदपाठः

स्तुतः॑ । च॒ । याः । त्वा॒ । वर्ध॑न्ति । म॒हे । राध॑से । नृ॒म्णाय॑ ।
इन्द्र॑ । का॒रिण॑म् । वृ॒धन्तः॑ ॥

सायणभाष्यम्

हे इन्द्र कारिणं कर्मणां कर्तारं वृधन्तोवर्धयन्तः ये स्तुतः स्तोतारः याश्च तदीयाः स्तुतयः त्वा त्वां वर्धन्ति वर्धयन्ति किमर्थं महे महते राधसे धनाय नृम्णाय बलाय च उभयोर्लाभार्थं तदुभयं लभन्तइत्यध्याहारः यद्वोत्तरत्र ते सत्रादधिरेशवांसीतिसबन्धः ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२