मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३०

संहिता

गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।
स॒त्रा द॑धि॒रे शवां॑सि ॥

पदपाठः

गिरः॑ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य॑म् । तानि॑ ।
स॒त्रा । द॒धि॒रे॒ । शवां॑सि ॥

सायणभाष्यम्

हे गिर्वाहः गीर्भिःस्तुतिभिर्वहनीयेन्द्र ते तुभ्यं क्रियमाणाः गिरश्च स्तुतिरूपाश्च वाचोयाः सन्ति उक्थाच उक्थानिच शस्त्ररूपाणिच वचांसि तुभ्यं त्वदर्थं क्रियमाणानि यानि सन्ति तानि सर्वाणि सत्राहैव शवांसि बलानि दधिरे विदधिरे ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२