मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३२

संहिता

हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ः पु॒रू पु॑रुहू॒तः ।
म॒हान्म॒हीभि॒ः शची॑भिः ॥

पदपाठः

हन्त॑ । वृ॒त्रम् । दक्षि॑णेन । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।
म॒हान् । म॒हीभिः॑ । शची॑भिः ॥

सायणभाष्यम्

अथमिन्द्रोदक्षिणेन हस्तेन एकेनैव वृत्रमावरकमसुरं हन्ता साधु हतवान् हन्तेः साधुकारिणि तृन् नलोकाव्ययेति षष्ठीप्रतिषेधः । पुरु पुरुषु सुपांसुलुगिति विभक्तेर्लुक् बहुषु देशेषु पुरुहूतः बहुभिराहूतः महीभिर्महतीभिः शचीभिः क्रियाभिः शक्तिभिवां महान् सर्वेभ्यउ- त्कृष्टएवंभूतइन्द्रोस्मान् रक्षत्वित्यर्थः ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३