मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३३

संहिता

यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।
अनु॒ घेन्म॒न्दी म॒घोनः॑ ॥

पदपाठः

यस्मि॑न् । विश्वाः॑ । च॒र्ष॒णयः॑ । उ॒त । च्यौ॒त्ना । ज्रयां॑सि । च॒ ।
अनु॑ । घ॒ । इत् । म॒न्दी । म॒घोनः॑ ॥

सायणभाष्यम्

विश्वाः सर्वाः चर्षणयः प्रजाः यस्मिन्निन्द्रे वर्तन्ते यदधीनाभवन्ति उतापिच च्यौत्ना च्यौत्नानि बलनामैतत् प्रच्युतसाधनानि बलानिच ज्रयांसि शत्रुविषयाण्यभिभवनानि यस्मिन्निन्द्रे वर्तन्ते विज्रि अभिभवे इतिधातुः । सइन्द्रः मघोनः मघं हविर्लक्षणधनं तद्वतोयजमानान् अनुमन्दी अनुमोदकोभवति घेदितिपूरकौ यद्वा मन्दी स्तुत्यः सइन्द्रः तान् अनुगृह्णातीतिशेषः अथवा यस्य मघोनोधनवतइन्द्रस्य मन्दी स्तोतानुकूलोभवति एषएतानीत्युत्तरत्रैकवाक्यता ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३