मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३४

संहिता

ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे ।
वा॒ज॒दावा॑ म॒घोना॑म् ॥

पदपाठः

ए॒षः । ए॒तानि॑ । च॒का॒र॒ । इन्द्रः॑ । विश्वा॑ । यः । अति॑ । शृ॒ण्वे ।
वा॒ज॒ऽदावा॑ । म॒घोना॑म् ॥

सायणभाष्यम्

एषइन्द्रः विश्वा विश्वानि व्याप्तानि एतानि वृत्रवधादीनि वीर्याणि यद्वा पृथिव्यादीनि भूतजातानि चकार कृतवान् यइन्द्रोबलैरतिश- यितः शृण्वे श्रूयते सर्वत्र स्तूयते अपिच सइन्द्रोमघोनां हविष्मतां यजमानानां वाजदावा वाजस्यान्नस्य दाता भवति ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३