मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३६

संहिता

सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभि॒ः शूरः॑ ।
स॒त्यो॑ऽवि॒ता वि॒धन्त॑म् ॥

पदपाठः

सनि॑ता । विप्रः॑ । अर्व॑त्ऽभिः । हन्ता॑ । वृ॒त्रम् । नृऽभिः॑ । शूरः॑ ।
स॒त्यः । अ॒वि॒ता । वि॒धन्त॑म् ॥

सायणभाष्यम्

विप्रोमेधावी सइन्द्रः अर्वद्भिरश्वैः वाहनभूतैः सनिता गन्तव्यं संभक्ता तथा शूरः शौर्योपेतः सन् नृभिर्नेतृभिर्मरुद्भिः सार्धं वृत्रमावरकम- सुरं हन्ता साधुघाती अपिच विधन्तं परिचरन्तं यजमानः सत्यः साधुः अवितथस्वभावोवा सइन्द्रः अविता परिचरतोयजमानस्य रक्षिता भवति । सर्वविधीनां छन्दसिविकल्पितत्वादत्रकर्मणिषष्ठी न प्रवर्तते ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४