मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३७

संहिता

यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा ।
यो भूत्सोमै॑ः स॒त्यम॑द्वा ॥

पदपाठः

यज॑ध्व । ए॒न॒म् । प्रि॒य॒ऽमे॒धाः॒ । इन्द्र॑म् । स॒त्राचा॑ । मन॑सा ।
यः । भूत् । सोमैः॑ । स॒त्यऽम॑द्वा ॥

सायणभाष्यम्

हे प्रियमेधाः प्रियः अनुकूलः मेधोयज्ञोयेषां ते तथोक्ताः आत्मनि पूजार्थं बहुवचनं प्रियमेधाख्यऋषिरात्मानं संबोध्य ब्रूते हे प्रियमेधाः सत्राचा सहांचता स्तोतव्येनेन्द्रेण सह वर्तमानेन मनसा चित्तेन यएनमिन्द्रं यजध्व यजध्वं बुद्धिपूर्वकं यजेत्यर्थः यजध्वैनमिति निपात- नाद्वर्णलोपः यइन्द्रः सोमैः करणभूतैः सत्यमद्वा भूत् सत्यमदः अवितथमदोभवति ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४