मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३८

संहिता

गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म् ।
कण्वा॑सो गा॒त वा॒जिन॑म् ॥

पदपाठः

गा॒थऽश्र॑वसम् । सत्ऽप॑तिम् । श्रवः॑ऽकामम् । पु॒रु॒ऽत्मान॑म् ।
कण्वा॑सः । गा॒त । वा॒जिन॑म् ॥

सायणभाष्यम्

हे कण्वासः कण्वपुत्राः मेधातिथयः पूर्ववद्बहुवचनमात्मनः संबोधनंच हे कण्वस्यपुत्राः मेधातिथयोयूयं गाथश्रवसं गातव्ययशसं सप्ततिं सतां पालयितारं श्रवस्कामं श्रवत्सु अन्नेषु हविष्षु कामोभिलाषोयस्य तादृशं पुरुत्मानं बह्वात्मानं यद्वा पुरुषु बहुषु प्रदेशेषु अतन्तं सततं गच्छन्तं वाजिनं वेगवन्तं एवं गुणकमिन्द्रं गात गायत स्तुध्वम् ॥ ३८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४