मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३९

संहिता

य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒ः शची॑वान् ।
ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥

पदपाठः

यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्यः॑ । दात् । सखा॑ । नृऽभ्यः॑ । शची॑ऽवान् ।
ये । अ॒स्मि॒न् । काम॑म् । अश्रि॑यन् ॥

सायणभाष्यम्

पणिभिर्देवगवीष्वपहृतासु पदेभ्योगतानां गवां मार्गे संलग्नेभ्यः अन्वेषणसाधनभूतेभ्यः ऋतेचित् ऋतेपि विनापि सखा मित्रभूतः शची- वान् कर्मवान् प्रशस्तकर्मा यइन्द्रोनृभ्योनेतृभ्योदेवेभ्यः गाः पणिभिरपत्दृतादात् पुनर्दत्तवान् । येदेवाः अस्मिन्निन्द्रे कामं अभिलाषं अश्रियन् असेवन्त प्राप्नुवन् तेभ्योनृभ्यइत्यन्वयः तमिन्द्रं गातेति पूर्वेणसहैकवाक्यता ॥ ३९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४