मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ४०

संहिता

इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् ।
मे॒षो भू॒तो॒३॒॑ऽभि यन्नयः॑ ॥

पदपाठः

इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् ।
मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥

सायणभाष्यम्

इत्था इत्थमनेनोक्तप्रकारेण धीवन्तं स्तुतिमन्तं काण्वं कण्वपुत्रं मेधयातिथिं यज्ञार्हातिथिं एतत्संज्ञमृषिं हे अद्रिवोवज्रवन्निन्द्र मेषभूतः मेषरूपतां प्राप्तः अभियन् अभिगच्छन् यइत्यनुवर्तते तद्योगाच्च तिङोनिघातभावः यस्त्वं अयः अगमयः तं त्वां स्तुमइत्यर्थः । मेधाति- थिर्मेषेति सुब्रह्मण्यामन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणं छन्दोगैरेवमाम्नायते-मेधातिथिंहिकाण्वायनिं मेषोभूत्वोदजहारेति । तदभिप्रा- येणेयं स्तुतिः कृता ॥ ४० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४