मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ४१

संहिता

शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।
अ॒ष्टा प॒रः स॒हस्रा॑ ॥

पदपाठः

शिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् ।
अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥

सायणभाष्यम्

विभिन्द्रुनाम्नोराज्ञः सकाशाद्बहुधनं लब्ध्वा तदीयं दानं इदमादिकेन द्वृचेन प्रशंसति हेविभिन्दोराजन् ददत् दाता त्वं अस्मै मह्यमृषये चत्वारि अयुता अयुतानि दशसहस्राणि चत्वारिंशत्सहस्राणि शिक्ष अशिक्षः दत्तवानसि परः परस्तात् ऊर्ध्वमपि अष्टसंख्याकानि सहस्रा सहस्राणि च दत्तवानसि ॥ ४१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४