मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् १

संहिता

पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।
आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धियः॑ ॥

पदपाठः

पिब॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः ।
आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥

सायणभाष्यम्

हे इन्द्र रसिनोरसवतः गोमतोगोविकारैः पयः प्रभृतिभिः श्रयणद्रव्यैः युक्तस्य नोस्मदीयस्य सुत्स्याभिषुतस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थेषष्ठी ईदृशं सोमं पिब पीत्वा च मत्स्व तृप्तोभव । अपिच सधमाद्यः सहमादयितव्यः सहितैरस्माभिस्तर्प- यितव्यस्त्वं आपिरापयिता बन्धुः सन् नोस्माकं वृधे वर्धनाय बोधि बुध्यस्व । ते त्वदीयाधियः बुद्धयः अनुग्रहात्मिकाः अस्मान् स्तोतॄन् अवन्तु रक्षन्तु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५