मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ३

संहिता

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
पा॒व॒कव॑र्णा॒ः शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिरः॑ । व॒र्ध॒न्तु॒ । याः । मम॑ ।
पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒पः॒ऽचितः॑ । अ॒भि । स्तोमैः॑ । अ॒नू॒ष॒त॒ ॥

सायणभाष्यम्

हे पुरूवसो बहुधनेन्द्र मम मदीया याइमागिरः शस्त्ररूपावाचः त्वा त्वां वर्धन्तु वर्धयन्तु तथा पावकवर्णाः अग्निसमानतेजस्काः अतएव शुचयः शुद्धाः विपश्चितोविद्वांसः उद्गातारश्च स्तोमैः स्तोत्रैर्बहिष्पवमानादिभिः अभ्यनूषत त्वामभिष्टुवन्ति । नू स्तुतौ कुटादिः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५