मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ५

संहिता

इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥

पदपाठः

इन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
इन्द्र॑म् । स॒म्ऽई॒के । व॒निनः॑ । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥

सायणभाष्यम्

देवतातये देवैः स्तोतृभिः तायते विस्तार्यते इति देवतातिर्यज्ञः तदर्थं इन्द्रमित् देवेषु मध्ये इन्द्रमेवाह्वयामहे अध्वरे यज्ञे प्रयति प्रगच्छति उपक्रान्ते सति इन्द्रं हवामहे । तथा समीके सम्यग्गते संपूर्णे च यागे वनिनः संभजमानावयं इन्द्रमेवाह्वयामहे । यद्वा समीकमिति संग्रामनाम समीके संग्रामे इन्द्रमेवाह्वयामहे धनस्य सातये लाभाय इन्द्रमेवाह्वयामहे । अतः शीघ्रमिन्द्रआगच्छत्वित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५