मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ६

संहिता

इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒ः सूर्य॑मरोचयत् ।
इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥

पदपाठः

इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् । अ॒रो॒च॒य॒त् ।
इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥

सायणभाष्यम्

अयमिन्द्रः शवः शवसः आत्मीयस्य बलस्य मह्ना महिम्ना महत्त्वेन रोदसी द्यावापृथिव्यौ पप्रथत् अप्रथयत् विस्तारितवान् तथा स्वर्भा- नुना वृतं सूर्यं अयमेवेन्द्रः अरोचयददीपयत् तस्यासुरस्य वधेन प्रकाशितवान् । अपिच इन्द्रेह अस्मिन्नेवेन्द्रे विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि येमिरे उपरमन्ते इन्द्रेण नियम्यन्तइत्यर्थः । तथा सुवानासः सूयमानाः अभिषूयमाणाः इन्दवः सोमाश्च् अस्मिन्ने- वेन्द्रे नियम्यन्ते अन्तर्भवन्तीत्यर्थः ॥ ६ ॥ ज्योतिष्टोमोयदिरथन्तरपृष्ठः तदा निष्केवल्ये अभित्वापूर्वपीतयइतिप्रगाथोनुरूपः सूत्र्यतेहि-अभित्वापूर्वपीतयइति प्रगाथौ स्तोत्रियानुरूपाविति । महाव्रते निष्केवल्ये दक्षिणपक्षेप्ययं प्रगाथः सूत्रितञ्च-अभित्वापूर्वपीतयइतिरथन्तरस्यस्तोत्रियानुरूपौ प्रगाथाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६