मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ९

संहिता

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥

पदपाठः

तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ।
येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥

सायणभाष्यम्

हे इन्द्र तत्सुवीर्यं शोभनवीर्यं त्वा त्वां यामि याचामि छान्दसोवर्णलोपः । तथा तद्ब्रह्मपरिवृढमन्नं पूर्वचित्तये पूर्वप्रज्ञानाय अन्येभ्यः पूर्वमेव लाभाय त्वां याचामि धने हिते अभीष्टे सति येन सुवीर्येण यतिभ्यः कर्मसूपरतेभ्यः अयष्टृभ्योजनेभ्यः सकाशाद्धनमाहृत्य भृगवे महर्षये प्रयच्छसि । यद्वा कर्मसु नियताअङ्गिरसोयतयः तेषामर्थं धनं प्रयच्छसि तादर्थ्येचतुर्थी येनच ब्रह्मणा प्रस्कण्वं कण्वप्रभवं कण्वस्य पुत्रमृषिं आविथ ररक्षिथ तदुभयं याचामीत्यन्वयः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६