श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् ।
श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥
श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि॑ । सु॒ऽवीर्य॑म् ।
श॒ग्धि । वाजा॑य । प्र॒थ॒मम् । सिसा॑सते । श॒ग्धि । स्तोमा॑य । पू॒र्व्य॒ ॥
हे इन्द्र सुवीर्यं शोभनवीर्योपतं बहुव्रीहौ वीरवीर्यौचेत्युत्तरपदाद्युदात्तत्वं यद्रयिं धनं त्वा त्वां यामि याचामि छान्दसोवर्णलोपः नोस्मभ्यं तद्द्धनं शग्धि देहि शकिरत्रदानार्थः तस्माल्लोटि हौ छान्दसोविकरणस्यलुक् । हुझल्भ्यइतिहेर्धित्वम् । तथा सिषासते संभक्तुमिच्छते सनतेः सनि सनीवन्तर्धेति विकल्पनादिडभावे जनसनखनामित्यात्वम् । वाजाय वाजइत्यन्ननाम तेनच तद्वान् लक्ष्यते हविष्मते यजमानाय प्रथमं सर्वेभ्यः पूर्वमेव शग्धि धनं प्रयच्छ । यद्वा वाजायेति द्वितीयार्थे चतुर्थी कर्मभिस्त्वां संभक्तुमिच्छते जनाय प्रथमं वाजाय वाजमन्नं शग्धि देहि पश्चात् स्तोमाय स्तोत्रे हे पूर्व्य पूर्वस्मिन्काले भव चिरन्तनेन्द्र शग्धि देहि स्तौतेः कर्तरि अर्तिस्तुस्वित्यादिना मन्प्रत्ययः ॥ ११ ॥