मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् १३

संहिता

कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्य॑ः ।
न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥

पदपाठः

कत् । नव्यः॑ । अ॒त॒सीना॑म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः॑ ।
न॒हि । नु । अ॒स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः॑ । गृ॒णन्तः॑ । आ॒न॒शुः ॥

सायणभाष्यम्

अतसीनां अतीतानां सन्ततगामिनीनां स्तुतीनां तुरः प्रेरयिता मर्त्योमरणधर्मा नव्योभिनवः इदानींतनः कत् कोनाम स्तोता गृणीत इन्द्रं स्तुयात् अल्पप्रज्ञैरिदानींतनैरिन्द्रः स्तोतुं नशक्यतइत्यर्थः । गृशब्दे क्यादिकः प्वादीनांह्रस्वइतिह्रस्वत्वम् । नु पुरा पूर्वस्मिन्नपिकाले विद्यमानाः स्वः सर्वे गृणन्तः स्तोतारः यद्वा स्वः सुष्ठु अरणीयं प्राप्तव्यमिन्द्रं गृणन्तः स्तुवन्तोजनाः इन्द्रियं इन्द्रस्यलिङ्गं इन्द्रस्यै- वासाधारणं अस्येन्द्रस्य महिमानं महत्त्वं नत्द्यानशुः न खलु प्राप्नुवन् अश्नोतेर्लिटि व्यत्ययेनपरस्मैपदम् अतआदेरित्यभ्यासस्यात्वम् अश्नोतेश्चेतिनुट् हितेति निघात्तप्रतिषेधः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७