कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषि॒ः को विप्र॑ ओहते ।
क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥
कत् । ऊं॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः । विप्रः॑ । ओ॒ह॒ते॒ ।
क॒दा । हव॑म् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊं॒ इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥
हे इन्द्र स्तुवन्तः स्तोत्रं कुर्वन्तः कदु के खलु जनाः देवता देवत्तलिति स्वार्थिकस्तल् प्रत्ययः व्यत्ययेन प्रथमा देवं त्वामुद्दिश्य ऋतयन्त ऋतं यज्ञमैच्छन् त्वदीययागेच्छापि दुर्लभा दूरेत्वद्यागकथा ऋषिर्द्रष्टा विप्रोमेधावी कः स्तोता ओहते वहति त्वां स्तुतीः प्रापयति न कश्चिदपि त्वां स्तोतुं शक्रोतीत्यर्थः । यतएवमतः कारणात् हे मघवन् धनवन्निन्द्र अनुग्रहीत्रात्वयैवागन्तव्यं सत्वं कदा कस्मिन्काले सुन्वतः सोमाभिषवं कुर्वतोयजमानस्य हवमाह्वानं आगमः आगच्छः । कदु कदाच कस्मिंश्चकाले स्तुवतः केवलं स्तोत्रं कुर्वतो यजमान- स्यहवमाह्वानं आगमः अभ्यगच्छः सुन्वतः स्तुवतइत्युभयत्र शतुरनुमइतिविभक्तेरुदात्तत्वम् गमेर्लुङि ऌदित्वात् च्लेरङादेशः ॥ १४ ॥ ज्योतिष्टोमे माध्यन्दिनसवने ब्रह्मशस्त्रे उदुत्यइतिप्रगाथोनुरूपानन्तरं शंसनीयः सूत्रितञ्च-उदुत्येमधुमत्तमा इन्द्रःपूर्भिदिति । चातु- र्विशिके माध्यन्दिने सवने तस्मिन्नेवशस्त्रे अयं प्रगाथोवैकल्पिकोनुरूपः सूत्रितञ्च-उदुत्येमधुमत्तमास्त्वमिन्द्रप्रतूर्तिष्विति ।