मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् १५

संहिता

उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ः स्तोमा॑स ईरते ।
स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥

पदपाठः

उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ।
स॒त्रा॒ऽजितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥

सायणभाष्यम्

त्ये ते प्रसिद्धाः मधुमत्तमा अतिशयेन मधुराः गिरः अप्रगीताः शस्त्ररूपावाचः स्तोमासः प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च उदीरते हे इंद्र त्वामुद्दिश्योद्गच्छन्ति ऊर्ध्वं प्रसरन्ति ईरगतौ आदादिकः । तत्रदृष्टान्तः-सत्राजितः सहैव शत्रून् जयन्तः अतएव धनसाः धनानि संभजन्तः वनषणसंभक्तौ जनसनखनक्रमगमोविट् विड्वनोरनुनासिकस्यादित्यात्वं अक्षितोतयः अक्षिताः क्षयरहिता ऊतयो रक्षा येषां ते तथोक्ताः क्षियोभावेनिष्ठा निष्ठायामण्यदर्थइति पर्युदासाद्दीर्घाभावः अतएव क्षियोदिर्घादिति निष्ठानत्वाभावश्च । वाजयन्तः वाजमन्नमिच्छन्तः क्यचि न छन्दस्यपुत्रस्येति इत्वदीर्घयोः प्रतिषेधः एवंगुणविशिष्टाः रथाइव ते यथा विविधमितस्तत- उत्तिष्ठन्ति त्रद्वदुदीरत इत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७