मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् १६

संहिता

कण्वा॑ इव॒ भृग॑व॒ः सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥

पदपाठः

कण्वाः॑ऽइव । भृग॑वः । सूर्या॑ऽइव । विश्व॑म् । इत् । धी॒तम् । आ॒न॒शुः॒ ।
इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥

सायणभाष्यम्

कण्वाइव कण्वगोत्रोत्पन्नाऋषयइव स्तुवन्तो भृगवो भृगुगोत्रोत्पन्नाऋषयः धीतमाध्यातं विश्वमित् व्याप्तं तमेवेन्द्रं आनशुः व्यापुः सूर्याइव यथा सूर्यरश्मयः सर्वं जगद्माप्नुवन्ति तद्वत् । अपिच प्रियमेधासः प्रियप्रज्ञाः एतत्संज्ञावा आयवोमनुष्याः तमेवेन्द्रं महयन्तः पूजयन्तः स्तोमेभिः स्तोत्रैरस्वरन् अस्तुवन् स्वृशब्दोपतापयोः भौवादिकः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८