मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् १९

संहिता

निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।
निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥

पदपाठः

निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः॑ । वृ॒त्रम् । धनु॑ऽभ्यः । अ॒स्फु॒रः॒ ।
निः । अर्बु॑दस्य । मृग॑यस्य । मा॒यिनः॑ । निः । पर्व॑तस्य । गाः । आ॒जः॒ ॥

सायणभाष्यम्

हे इन्द्र वृत्रमावरकमसुरं बृहतीभ्यो महद्भो लिंगव्यत्ययः धनुभ्यो धनुर्भ्यः कोदंडेभ्यः छान्दसोरेफलोपः हेतो पञ्चमी महद्भिर्धनुर्भिर्हेतुभिः निरस्फुरः स्फुरतिर्वधकर्मा निरवधीः निःशेषेण हतवानसि । यद्वा वृत्रमावरकं मेघं धनुभ्यः धन्वन्ति गच्छन्तीति धनवआपः महतीभ्योद्भ्यः तादर्थ्येचतुर्थी ईदृशीनामपां लाभार्थं निरवधीः अपिच मायिनोमायाविनः अर्बुदस्य एतत्संज्ञकस्यासुरस्य मृगयस्य एतत्संज्ञकस्यच उभयत्र कर्मणि षष्ठी इमावप्यसुरौ निरस्फुरः निःशेषेणावधीः मायाशब्दस्य व्रीत्द्यादिषुपाठात् व्रीत्द्यादिभ्यश्चेति मत्वर्थीयइनिः यथा पर्वतस्य बलनाम्नासुरेण गवामदर्शनाय निहितस्य गिरेः संबन्धिनीर्गाबलेनापहृताः निराजः निरगमयः अजगतिक्षेपणयोः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८