मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् २०

संहिता

निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ ।
निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥

पदपाठः

निः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊं॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ ।
निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥

सायणभाष्यम्

हे इन्द्र महां महान्तं कृत्स्नस्य जगतो व्यापकं अहिं आहननशीलं वृत्रं यदा त्वमन्तरिक्षादाकाशात् निरधमोनिरगमयः धमतिर्गतिकर्मा तत्तदानीं पौंस्यं वृत्रहननहेतुभूतं बलं कृषे कुरुषे पुरस्कुरुषे करोतेश्छान्दसोविकरणस्य लुक् । अग्नयश्च विस्थानगताः नीरुरुचुः निःशेषेण दिदीपिरे सूर्यः प्रेरकआदित्योपि निःशेषेण दिदीपे इन्द्रियः इन्द्रेण सेव्योरसः रसात्मकः अमृतमयः सोमश्च निःशेषेण दिदीपे अग्न्यादयः सर्वे पूर्वं वृत्रेणावृतत्वान्निःप्रभाः सन्तः इदानीं तस्मिन्नावरके हते सम्यक् प्राकाशिषतेत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८