मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् २१

संहिता

यं मे॒ दुरिन्द्रो॑ म॒रुत॒ः पाक॑स्थामा॒ कौर॑याणः ।
विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥

पदपाठः

यम् । मे॒ । दुः । इन्द्रः॑ । म॒रुतः॑ । पाक॑ऽस्थामा । कौर॑याणः ।
विश्वे॑षाम् । त्मना॑ । शोभि॑ष्ठम् । उप॑ऽइव । दि॒वि । धाव॑मानम् ॥

सायणभाष्यम्

इदमादिकेन चतुरृचेन कुरुयाणपुत्रात् पाकस्थामनाम्नोराज्ञो दानं लब्ध्वा मेध्यातिथिस्तदीयं दानं स्तौति । यं यादृशं धनसंघं मे मह्यं इन्द्रो मरुतश्च दुः दत्तवन्तः तादृशमेव धनसमूहंकौरयाणः शत्रून् प्रति युद्धाभिमुख्येन कृतं यानं हस्त्यश्वादिकं येन असौ कुरयाणः तस्य पुत्रः कौरयाणः पाकस्थामा तिष्ठत्यनेनेति स्थाम बलं परिपक्वबलः एतत्संज्ञो राजा मत्द्यं प्रादात् ददातेर्लुङि गातिस्थेति सिचोलुक् अडभावश्छान्दसः कीदृशं धनसंघं विश्वेषां सर्वेषां सर्वेषां धनानां मध्ये त्मना आत्मना स्वतएव शोभिष्ठं अतिशयेन शोभावन्तम् मन्त्रेष्वाङ्यादेरित्यात्मनआकारलोपः शोभावच्छब्दादातिशायनिकइष्ठन् विन्मतोर्लुक् यस्येतिलोपः अतिशयेन शोभावत्वे दृष्टान्तः- दिव्याकाशे उपेव धावमानं प्रभाभिरुपेतं शीघ्रगामिनं सूर्यमिव शोभावत्तममित्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९