मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् २२

संहिता

रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।
अदा॑द्रा॒यो वि॒बोध॑नम् ॥

पदपाठः

रोहि॑तम् । मे॒ । पाक॑ऽस्थामा । सु॒ऽधुर॑म् । क॒क्ष्य॒ऽप्राम् ।
अदा॑त् । रा॒यः । वि॒ऽबोध॑नम् ॥

सायणभाष्यम्

पाकस्थामा राजा रोहितं लोहितवर्णं वृषभमश्वं वा मे मत्द्यं अदात् दत्तवान् कीदृशं सुधुरं शोभनधुरं शोभनवहनप्रदेशं ऋक्पूरब्धू- रित्यकारः समासन्तः क्रत्वादयश्चेति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । कक्ष्यप्रां कक्ष्या कक्षयोर्बाहुमूलयोर्बध्यमाना रज्जुः तां प्रातारं पूरयितारं पीवरमित्यर्थः । प्रापूरणे रायोधनस्य विबोधनं विशेषेण बोधकं बहुधनप्राप्तिहेतुमित्यर्थः । ऊडिदमित्यादिना रायोविभक्ति- रुदात्ता ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९