मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् २४

संहिता

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् ।
तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥

पदपाठः

आ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् ।
तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥

सायणभाष्यम्

अयं पाकस्थामा आत्मा स्वयं पितुः जनकस्य तनूः तनयः पिता यथासन्मार्गवर्तितया प्रशस्तः एवमयमपीत्यर्थः । तथा वासः वासयिता निवासयिता वासयतेरौणादिकः असुन् अभ्यञ्जनं अभिव्यक्तं यथा भवति तथा ओजोदाः ओजसोबलस्य दाता धारयितावा यद्वा आत्मा सततगामी पितुरित्यन्ननाम प्राप्तमन्नं येन दत्तं तनूर्विस्तृतं वासोवस्त्रम् अभ्यंजनं अभ्यंजनसाधनं घृततैलादिकं च येन दत्तम् यश्च ओजोदाः बलस्य दाता तं पाकस्थामानं तुरीयं स्वकीयप्रपितामहापेक्षया चतुर्थम् । यद्वा तुरीयं शत्रूणां तूर्वकं हिंसितारं भोजं शत्रूणां भोजयितारं रोहितस्य लोहितवर्णस्य पूर्वोक्ताश्वस्य दातारम् एवंगुणकं पाकस्थामानं अब्रवं उक्तेन प्रकारेणास्तौषम् इदिति पूरकः ॥ २४ ॥

यदिन्द्रेति एकविंशर्चं चतुर्थं सूक्तं काण्वगोत्रस्य देवातिथेरार्षं वृक्षाश्चिन्मइत्येषा पुरउष्णिक् शिष्टासु अयुजोबृहत्यः युजः सतोबृहत्यः स्थूरंराधइत्यादिभिस्तिसृभिः कुरुङ्गदानस्य स्तूयमानत्वात् तास्तद्देवताकाः तत्पूर्वाः पञ्चदश्याद्याश्चतस्रः पूषदेवताका इन्द्रदेवताकावा शिष्टाऎन्द्भ्यःतथाचानुक्रान्तम्-यदिन्द्रसैकादेवातिथिस्तृचोन्त्यः पुरउष्णिगन्तः कुरुङ्गस्य दानस्तुतिस्तत्पूर्वाश्चतस्रः पौष्णयोवेति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ आद्याश्चतुर्दशर्चः शंसनीयाः तथैव पञ्चमारण्यके-यदिन्द्रप्रागपागुदगिति । चतुर्दशेति चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे आद्यः प्रगाथोवैकल्पिकः स्तोत्रियः सूत्र्यतेहि-यदिन्द्रप्रागपागुदग्यथागौरोअपाकृतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९