मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १

संहिता

यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑ः ।
सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥

पदपाठः

यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।
सिम॑ । पु॒रु । नृऽसू॑तः । अ॒सि॒ । आन॑वे । असि॑ । प्र॒ऽश॒र्ध॒ । तु॒र्वशे॑ ॥

सायणभाष्यम्

हे इन्द्र यत् यदि प्राक् प्राच्यांदिशि वर्तमानैः सप्तम्यन्ताद्दिक् शब्दाद्विहितस्यास्तातेरञ्चेर्लुगिति लुक् । अपाक् प्रतीच्यां दिशि वर्तमानैः यदिवा उदक् उदीच्यां दिशि वर्तमानैः यद्वा नीच्यां दिशि अधस्ताद्वर्तमानैः न्यधीचेति नेःप्रकृतिस्वरत्वम् उदात्तस्वरितयोर्यणइति परस्यानुदात्तस्य स्वरितत्वम् एवंभूतैर्नृभिः स्तोतृभिः त्वं हूयसे स्वस्वकार्याय आहूयसे हे सिम श्रेष्ठेन्द्र । सिमइति वैश्रेष्ठमाचक्षतइति वाजसनेयकम् । यद्यप्येवं बहुभिराहूयसे तथापि आनवे आनुर्नामराजा तस्यपुत्रे राजर्षौ पुरु बहुलं नृषूतः नृभिस्तदीयैःस्तोतृभिः प्रेरितोसि भवसि राज्ञोहितकरणे त्वां स्तोतारः प्रेरयन्तीत्यर्थः षूप्रेरणे अस्मात्कर्मणि निष्ठा । तृतीयाकर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । अपिच हे प्रशर्ध प्रकर्षेण शर्धयितरभिभवितरिन्द्र तुर्वशेएतत्संज्ञे च राजनि नृषूतोसि नृभिः प्रेरितोभवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०