मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् २

संहिता

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।
कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒ः स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥

पदपाठः

यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ ।
कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

यद्वा यद्यपि रुमादिषु चतुर्षु राजसु हे इन्द्र त्वं सचा सह मादयसे माद्यसि तथापि स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारः कण्वासः कण्वगोत्राऋषयः ब्रह्मभिः परिवृढैर्मन्त्रैर्हविर्भिर्वा हे इन्द्र त्वां आयच्छन्ति आगमयन्ति । यद्वा द्वितीयार्थे तृतीया । ब्रह्मभिः ब्रह्माणि हवींषि आभिमुख्येन प्रयच्छन्ति ददति दाण् दाने पाघ्रेत्यादिना यच्छादेशः अतस्त्वं आगहि शीघ्रमागच्छ गमेर्लेटिछान्दसः शपोलुक् ॥ २ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे यथेति प्रगाथोनुरूपः सूत्रितञ्च-यथागौरोअपाकृतमित्यच्छावाकस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०