मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् ३

संहिता

यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।
आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥

पदपाठः

यथा॑ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य॑न् । एति॑ । अव॑ । इरि॑णम् ।
आ॒ऽपि॒त्वे । नः॒ । प्र॒ऽपि॒त्वे । तूय॑म् । आ । ग॒हि॒ । कण्वे॑षु । सु । सचा॑ । पिब॑ ॥

सायणभाष्यम्

गौरोगौरमृगः तृष्यन् पिपासन् अपा अद्भिरुदकैः व्यत्ययेनैकवचनं ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् कृतं संपूर्णत्वंकृतम् इरिणं निस्तृणं तटाकदेशं यथा येनप्रकारेण अवैति अवगच्छति अवशब्दः अभिशब्दस्यार्थे अभिमुखः सन् शीघ्रं गच्छति तथा आपित्वे बन्धुत्वे प्रपित्वे प्राप्ते सति हे इन्द्र त्वं नोस्मान् तूयं क्षिप्रनामैतत् शीघ्रमागह्यागच्छ आगत्यच कण्वेषु कण्वपुत्रेष्वस्मासु सचा सह एकयत्नेनैव विद्यमानं सर्वं सोमं सु सुष्ठु पिब ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०