मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् ४

संहिता

मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते ।
आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥

पदपाठः

मन्द॑न्तु । त्वा॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । इन्द॑वः । रा॒धः॒ऽदेया॑य । सु॒न्व॒ते ।
आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒बः॒ । च॒मू इति॑ । सु॒तम् । ज्येष्ठ॑म् । तत् । द॒धि॒षे॒ । सहः॑ ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र इन्दवः क्लेदनाः सोमाः त्वां मन्दन्तु मादयन्तु हर्षयन्तु मन्देर्व्यत्ययेन परस्मैपदम् । किमर्थं सुन्वते सोमाभिषवं कुर्वते यजमानाय राधोदेयाय राधोधनस्य च दानार्थम् ददातेरचोयदिति भावेयत् ईद्यतीतीकारः यतोनावइत्याद्युदात्तत्वात्कृदुत्तरपद- प्रकृतिस्वरत्वम् शतुरनुमइति सुन्वच्छब्दात्पराविभक्तिरुदात्ता । अपिच त्वं सोमं आमुष्य आमोषणं कृत्वा अदत्तमपि बलादपहृत्य अपिबः पीतवानसि । सयज्ञवेशसं कृत्वा प्रासहासोममपिबदितिश्रुतेः । कीदृशं सोमं चमू चम्वोः अधिषवणफलकयोः सुतमभिषुतम् । यद्वा चमूभ्यां चमसाभ्यां होतुर्मैत्रावरुणस्य च संबन्धिभ्यां संस्कृताभिः वसतीवरीभिः सुतमभिषुतं यस्मादेवं तस्मात्कारणात् ज्येष्ठं प्रशस्यतमं वृद्धतमं वा सहोबलं दधिषे हेइन्द्र त्वं धारयसि अतोमदीयाअपि सोमास्त्वां मदयन्त्विति प्रार्थ्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०