मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् ५

संहिता

प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा ।
विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥

पदपाठः

प्र । च॒क्रे॒ । सह॑सा । सहः॑ । ब॒भञ्ज॑ । म॒न्युम् । ओज॑सा ।
विश्वे॑ । ते॒ । इ॒न्द्र॒ । पृ॒त॒ना॒ऽयवः॑ । य॒हो॒ इति॑ । नि । वृ॒क्षाःऽइ॑व । ये॒मि॒रे॒ ॥

सायणभाष्यम्

सइन्द्रः सहसा आत्मीयेनाभिभवेन वीर्यकर्मणा सहः शत्रुणामभिभवनं प्रचक्रे प्रकर्षेण कृतवान् तथा ओजसा बलेन मन्युं परकीयं क्रोधं बभञ्ज भग्नवान् उत्तरोर्धर्चः प्रत्यक्षकृतः हे यहो महन्नामैतत् हे महन्निन्द्र विश्वे सर्वे पृतनायवः युद्धकामाः शत्रवः ते त्वया वृक्षाइव महीरुहाइव नियेमिरे नियताआसन् यथा वृक्षानिश्चलास्तिष्ठन्ति तद्वन्निर्व्यापारा अभूवन्नित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०