मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् ८

संहिता

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।
मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥

पदपाठः

स॒व्याम् । अनु॑ । स्फि॒ग्य॑म् । व॒व॒से॒ । वृषा॑ । न । दा॒नः । अ॒स्य॒ । रो॒ष॒ति॒ ।
मध्वा॑ । सम्ऽपृ॑क्ताः । सा॒र॒घेण॑ । धे॒नवः॑ । तूय॑म् । आ । इ॒हि॒ । द्रव॑ । पिब॑ ॥

सायणभाष्यम्

वृषा कामानांवर्षितेन्द्रः सव्यां दक्षिणेतरां स्फिग्यं कटिप्रदेशमनु तृतीयार्थे अनोः कर्मप्रवचनीयत्वम् सव्ययास्फिग्या शरीरैकदेशेनैव ववसे वस्ते सर्वभूतजातमाच्छादयति स्वयं कृत्स्नं जगदतीत्यर्ततइत्यर्थः । निगमान्तर भवति-यदन्ययास्फिग्याक्षामवस्थाइति । अपिच दानः अवखण्डयिता दानअवखण्डने पचाद्यच् सच अस्य इममिन्द्रं नरोषति न हिनस्ति रुषरिषहिंसायाम् । इन्द्रं हिंसितुं शक्तः कश्चिदपि नास्तीत्यर्थः । यद्वा दानो हविषां दाता यजमानस्य अस्येन्द्रस्य न रोषति रोषं नजनयति सर्वदा हविर्भिः परिचरतित्यर्थः । उत्तरोर्धर्चः प्रत्यक्षकृतः सारघेण सरघा मधुमक्षिका तत्संबन्धिना मध्वा मधुना लुप्तोपममेतत् मधुनेव रसवता क्षीरादिना श्रयणद्रव्येण संपुक्ताः संसृष्ठाः संस्कृताः धेनवः धेनुवत् प्रीतिजनकाअस्मदीयाः सोमाः यद्वा धिवेः प्रीणनार्थाद्धेनवः प्रीणयितारइत्यर्थः अथवा धेट्पाने धेटइ- च्चेत्यौणादिकोनुप्रत्ययः तत्संनियोगेन इकारान्तादेशश्च पातव्याः सोमाइत्यर्थः । यतएवमतःकारणात् हे इन्द्र तूयं क्षिप्रं एहि अस्मत्समीपं आगच्छ आगत्यच द्रव सोमाः यस्मिन्नुत्तरवेदिलक्षणे स्थाने वर्तन्ते तं देशं शीघ्रं गच्छ द्रुगताविति धातुः द्भ्यचोतस्तिङइति सांहितिकोदीर्घः । तदनन्तरं अध्वर्युणा दत्तं सोमं पिब तेन सोमेन समयक्स्वोदरं पूरयेत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१