ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।
नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥
ऋश्यः॑ । न । तृष्य॑न् । अ॒व॒ऽपान॑म् । आ । ग॒हि॒ । पिब॑ । सोम॑म् । वशा॑न् । अनु॑ ।
नि॒ऽमेघ॑मानः । म॒घ॒ऽव॒न् । दि॒वेऽदि॑वे । ओजि॑ष्ठम् । द॒धि॒षे॒ । सहः॑ ॥
हे इन्द्र ऋष्योन ऋष्याख्यओमृगइव तृष्यन् पिपासंस्त्वं अवपानं अवनीतं ग्रहचमसादिषु पात्रेषु आनीतं पातव्यं सोमं आगहि अभिगच्छ गत्वाच तमस्मदीयं सोमं वशां अनुकामं यथाकामं पिब यावता पीतेन पर्याप्तिर्जायते तावता सोमेन स्वोदरं पूरयेत्यर्थः । अतएव सो- मपानात्प्राप्तबलस्त्वं दिवेदिवे प्रतिदिवसं निमेघमानः न्यंचिअवाङ्मुखानि वृष्ट्युदकानि सिञ्चन् हे मघवन्निन्द्र ओजिष्ठं ओजस्वितमं उद्गूर्णतमं सहोबलं दधिषे धारयसि ओजस्विशब्दादिष्ठनि विन्मतोर्लुगितिविनोलुक् टेरिति टिलोपः ॥ १० ॥