मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १२

संहिता

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ।
इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥

पदपाठः

स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु॑रिः । जनः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ।
इ॒दम् । ते॒ । अन्न॑म् । युज्य॑म् । सम्ऽउ॑क्षितम् । तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥

सायणभाष्यम्

दाशुरिर्दाश्वान् दाशतेरौणादिकउरिन् हविषां दाता सयजमानलक्षणोजनः स्वयंचित्स्वयमेव आत्मनैव मन्यते सर्वं जानाति परायत्तप्रज्ञो- नभवतीत्यर्थः यत्र यस्मिन् जने सोमस्य पाने न हे इन्द्र त्वं तृम्पसि तृप्तोभवसि । तृपतृंपतृप्तौ तौदादिकः शेतृंफादीनामिति नुम् । ते त्वदीयं युज्यं योग्यं इदमस्मदीयं सोमलक्षणमन्नं समुक्षितं सम्यक् पात्रेष्वासिक्तम् उक्षसेचने कर्मणि गतिरनन्तरैति गतेः प्रकृतिस्वरत्वम् अतस्तं तादृशं सोमं एत्द्यभिगच्छ प्रद्रव शीघ्रं प्राप्नुहि तदनन्तरं पिब पानं कुरु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२