मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १३

संहिता

र॒थे॒ष्ठाया॑ध्वर्यव॒ः सोम॒मिन्द्रा॑य सोतन ।
अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥

पदपाठः

र॒थे॒ऽस्थाय॑ । अ॒ध्व॒र्य॒वः॒ । सोम॑म् । इन्द्रा॑य । सो॒त॒न॒ ।
अधि॑ । ब्र॒ध्नस्य॑ । अद्र॑यः । वि । च॒क्ष॒ते॒ । सु॒न्वन्तः॑ । दा॒शुऽअ॑ध्वरम् ॥

सायणभाष्यम्

रथेष्ठाय रथेतिष्ठतीतिरथेष्ठः सुपिस्थइतिकप्रत्ययः तत्पुरुषेकृतिबहुलमिति सप्तम्याऽलुक् एवं लक्षणाय इन्द्राय हे अध्वर्यवः सोमं सोतन अभिषुणुत । षुञ्अभिषवे तप्तनप्तनथनाश्चेति तबादेशः । ब्रध्नस्य मूलस्य अभिषवार्थं चर्मणि स्थापितस्य उपराख्यस्य विस्तृतस्याश्मनः अध्युपरि अद्रयः अन्ये ग्रावाणः चतसृषु दिक्षु वर्तमानाः दाश्वध्वरं दाशोदातुर्यजमानस्य अध्वरो यागः येन निष्पद्यते तादृशं सोमं सुन्वन्तः ऋत्विङ्गिरपेक्षं स्वयमेवाभिषुण्वन्तो विचक्षते विशेषेण प्रकाशन्ते सोमाभिषवे अतिशयेनानुकूलावर्तन्तइत्यर्थः । अथवा उक्तलक्षणा येऽद्रयस्तैरद्रिभिः हे अध्वर्यवः सोममभीषुण्वतेति योज्यम् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२